भारते भाति भारती

भारते भाति भारती । 😊😌😍

एषा सूक्तिः संस्कृतसाहित्यस्य अत्यन्तं गौरवपूर्णा सूक्तिः अस्ति । अत्र संस्कृतभाषायाः शोभा-विषये उच्यते - सम्पूर्णे भारतवर्षे, भारती इत्युक्ते संस्कृतभाषा भाति शोभाधायिका भवति । संस्कृतसाहित्यस्य गौरवपूर्णस्य इतिहासस्य विषये पौर्वात्याः पाश्चात्याश्च विद्वांसः ऐकमत्येन अस्याः महत्त्वं स्वीकुर्वन्ति । ये खलु विभिन्नाः मतावलम्बिनः , तेऽपि संस्कृतस्य अभिधानं श्रुत्वैव नतमस्तकाः भवन्ति । देववाण्याः वैभवमिदं दर्शं दर्शं मोमुद्यते मे चेत इति ।

टिप्पणियाँ